|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.78. अध्यायः 078
Mahabharata - Ashvamedhika Parva - Chapter Topics
अर्जुनसमागमनश्रवणमात्रेण जयद्रथसुते मृते दुश्शलया तत्सुतमानीयार्जुनंप्रत्यभियानम्॥ 1 ॥ ततोऽर्जुनेन दुश्शलाप्रार्थनया तस्यां बहुमानेन च युद्धादुपरमः॥ 2 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
ततो गाण्डीवभृच्छूरो युद्धाय समुपस्थितः।
विबभौ युधि दुर्धर्षो हिमवानचलो यथा॥ 14-78-1(94639)
ततस्ते सैन्धवा योधाः पुनरेव व्यवस्थिताः।
व्यमुञ्चन्त सुसंरब्धाः शरवर्षाणि भारत॥ 14-78-2(94640)
तान्प्रहस्य महाबाहुः पुनरेव व्यवस्थितान्।
ततः प्रोवाच कौन्तेयो मुमूर्षञ्श्लक्ष्णया गिरा॥ 14-78-3(94641)
युध्यध्वं परया शक्त्या यतध्वं विजये मम।
कुरुध्वं सर्वकार्याणि महद्वो भयमागतम्॥ 14-78-4(94642)
एष योत्स्यामि सर्वांस्तु निवार्य शरवागुराम्।
तिष्ठध्वं युद्धमनसो दर्पं शमयितास्मि वः॥ 14-78-5(94643)
एतावदुक्त्वा कौरव्यो रोषाद्गाण्डीवभृत्तदा।
ततोऽथ वचनं स्मृत्वा भ्रातुर्ज्येष्ठस्य भारत॥ 14-78-6(94644)
न हन्तव्या रणे तात क्षत्रिया विजिगीषवः।
जेतव्याश्चेति यत्प्रोक्तं धर्मराज्ञा महात्मना।
चिन्तयामास स तदा फल्गुनः पुरुषर्षभः॥ 14-78-7(94645)
इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति।
कथितं न मृषेदं स्याद्धर्मराजवचः शुभम्॥ 14-78-8(94646)
न हन्येरंश्च राजानो राज्ञश्चाज्ञा कृता भवेत्।
इति सञ्चिन्त्य स तदा फल्गुनः पुरुषर्षभः॥ 14-78-9(94647)
प्रोवाच वाक्यं धर्मज्ञः सैन्धवान्युद्धदुर्मदान्।
बालांस्त्रियो वा युष्माकं न हनिष्ये व्यवस्थितान्॥ 14-78-10(94648)
यश्च वक्ष्यति सङ्ग्रामे तवास्मीति पराजितः।
एतच्छ्रुत्वा वचो मह्यं कुरुध्वं हितमात्मनः॥ 14-78-11(94649)
ततोऽन्यथा कृच्छ्रगता भविष्यथ मयाऽर्दिताः।
एवमुक्त्वा तु तान्वीरान्युयुधे कुरुपुङ्गवः॥ 14-78-12(94650)
अत्वरावानसम्भ्रान्तः संक्रुद्धैर्विजिगीषुभिः।
शतं शतसहस्राणि शराणां नतपर्वणाम्॥ 14-78-13(94651)
मुमुचुः सैन्धवा राजंस्तदा गाण्डीवधन्वनि।
शरानापततः क्रूरानाशीविषविषोपमान्।
चिच्छेद निशितैर्बाणैरन्तरा स धनंजयः॥ 14-78-14(94652)
छित्त्वा तु तानाशु चैव कङ्कपत्राञ्शिलाशितान्।
एकैकमेषां समरे बिभेद निशितैः शरैः॥ 14-78-15(94653)
ततः प्रास्रांश्च शक्तीस्च पुनरेव धनंजये।
जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः॥ 14-78-16(94654)
तेषां किरीटी सङ्कल्पं मोघं चक्रे महाबलः।
सर्वांस्तानन्तरा च्छित्त्वा तदा चुक्रोश पाण्डवः।
तथैवापततां तेषां योधानां जयगृद्धिनाम्। 14-78-17(94655)
तथैवापततां तेषां योधानां यजगृद्धिनाम्।
शिरांसि पातयामास भल्लैः सन्नतपर्वभिः॥ 14-78-18(94656)
तेषां प्रद्रवतां चापि पुनरेवाभिधावताम्।
निवर्ततां च शब्दोऽभूत्पूर्णस्येव महोदधेः॥ 14-78-19(94657)
ते वध्यमानास्तु तदा पार्थेनामिततेजसा।
यथाप्राणं यथोत्साहं योधयामासुरर्जुनम्॥ 14-78-20(94658)
ततस्ते फल्गुनेनाजौ शरैः सन्नतपर्वभिः।
कृता विसंज्ञा भूयिष्ठा क्लान्तवाहनसैनिकाः॥ 14-78-21(94659)
तांस्तु सर्वान्परिग्लानान्विदित्वा धृतराष्ट्रजा।
दुःशला बालमादाय नप्तारं प्रययौ तदा॥ 14-78-22(94660)
सुरथस्य सुतं वीरं रथेनाथागमत्तदा।
शान्त्यर्थं सर्वयोधानामभ्यगच्छत पाण्डवम्॥ 14-78-23(94661)
सा धनंजयमासाद्य रुरोदार्तस्वरं तदा।
धनंजयोपि तां दृष्ट्वा धनुर्विससृजे प्रभुः॥ 14-78-24(94662)
समुत्सृज्य धनुः पार्थो विधिवद्भगिनी तदा।
प्राह किं करवाणीति सा च तं प्रत्युवाच ह॥ 14-78-25(94663)
एष ते भरतश्रेष्ठ स्वस्त्रीयस्यात्मजः शिशुः।
अभिवादयते पार्थ तं पश्य पुरुषर्षभ॥ 14-78-26(94664)
इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तथा।
क्वासाविति ततो राजन्दुःशला वाक्यमब्रवीत्॥ 14-78-27(94665)
पितृशोकाभिसंतप्तो विषादार्तोऽस्य वै पिता।
पञ्चत्वमगमद्वीरो यथा तन्मे निशामय॥ 14-78-28(94666)
स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयाऽनघ।
त्वामागतं च संश्रुत्य युद्धाय हयसारिणम्।
पितुश्च मृत्युदुःखार्तोऽजहात्प्राणान्धनंजय॥ 14-78-29(94667)
प्राप्तो बीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ।
विषादार्तः पपातोर्व्यां ममार च ममात्मजः॥ 14-78-30(94668)
तं दृष्ट्वा पतितं तत्र ततस्तस्यात्मजं प्रभो।
गृहीत्वा समनुप्राप्ता त्वामद्य शरणैपिणी॥ 14-78-31(94669)
इत्युक्त्वाऽऽर्तस्वरं सा तु मुमोच धृतराष्ट्रजा।
दीना दीनं स्थितं पार्थमब्रवीच्चाप्यधोमुखम्॥ 14-78-32(94670)
स्वसारं समवेक्षस्व स्वस्रीयात्मजमेव च।
कर्तुमर्हसि धर्मज्ञ दयां कुरुकुलोद्वह।
विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम्॥ 14-78-33(94671)
अभिमन्योर्यथा जातः परिक्षित्परवीरहा।
तथाऽयं सुरथाज्जातो मम पौत्रो महाभुज॥ 14-78-34(94672)
तमादाय नरव्याघ्र सम्प्रप्तास्मि तवान्तिकम्।
शमार्थं सर्वयोधानां शृणु चेदं वचो मम॥ 14-78-35(94673)
आगतोऽयं महाबाहो तस्य मन्दस्य पुत्रकः।
प्रसादमस्य बालस्य तस्मात्त्वं कर्तुमर्हसि॥ 14-78-36(94674)
एष प्रसाद्य शिरसा प्रशमार्थमरिंदम।
याचते त्वां महाबाहो शमं गच्छ धनंजय॥ 14-78-37(94675)
बालस्य हतबन्धोश्च पार्थ किञ्चिदजानतः।
प्रसादं कुरु धर्मज्ञ मा मन्युवशमन्वगाः॥ 14-78-38(94676)
तमनार्थं नृशंसं च विस्मृत्यास्य पितामहम्।
आगस्कारिणमत्यर्तं प्रसादं कर्तुमर्हसि॥ 14-78-39(94677)
एवं ब्रुवत्यां करुणं दुःशलायां धनंजयः।
संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम्।
उवाच दुःखशोकार्तः क्षत्रधर्मं व्यगर्हयत्॥ 14-78-40(94678)
`धिक्तं दुर्योधनं क्षुद्रं राज्यलुब्धं च मानिनम्।'
यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम्॥ 14-78-41(94679)
इत्युक्त्वा बहु सान्त्वादि प्रसादमकरोज्जयः।
परिष्वज्य च तां प्रीतो विससर्ज गृहान्प्रति॥ 14-78-42(94680)
दुःशला चापि तान्योधान्निवार्य महतो रणात्।
सम्पूज्य पार्थं प्रययौ गृहानेव शुभानना॥ 14-78-43(94681)
एवं निर्जित्य तान्वीरान्सैन्धवान्स धनंजयः।
अन्वधावत धावन्तं हयं कामविचारिणम्॥ 14-78-44(94682)
ततो मृगमिवाकाशे यथा देवः पिनाकधृक्।
ससार तं तथा वीरो विधिवद्यज्ञियं हयम्॥ 14-78-45(94683)
स च वाजी यथेष्टेन तांस्तान्देशान्यथाक्रमम्।
विचचार यथाकामं कर्म पार्थस्य वर्धयन्॥ 14-78-46(94684)
क्रमेण स हयस्त्वेवं विचरन्पुरुषर्षभ।
मणलूरपतेर्देशमुपायात्सहपाण्डवः॥ ॥ 14-78-47(94685)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टसप्ततितमोऽध्यायः॥ 78 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-78-47 भणिपूरपतेरिति झ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|